वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठिता आविराविर्म एधि। वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीः। अनेनाधीतेनाहोरात्रन्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु मामवतु वक्तारमवतु वक्तारम् ।। ओ३म् शान्तिः...
moreवाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठिता आविराविर्म एधि। वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीः। अनेनाधीतेनाहोरात्रन्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु मामवतु वक्तारमवतु वक्तारम् ।। ओ३म् शान्तिः शान्तिः शान्तिः।।
-अनेनैव मन्त्रेण आदौ शान्तिप्रार्थनां विधाय प्रथमे अध्याये सृष्टेः वर्णनम् कृत्वा तस्य च मूलकारणत्वेन ब्रह्म इति निर्दिश्य तत्र द्वितीये अध्याये तावत् अग्न्यादिदेवतानां सृष्टौ प्रवेशक्रमः तेषाञ्च कार्यं वर्णितम्। ऋग्वेदस्य ऐतरेयब्राह्मणे प्राप्यते उपनिषत् एषा, द्वितीयारण्यकस्य सप्तमाध्याये । आधुनिकै अस्मिन् वेदे प्राप्तयोः उपनिषद्द्वयोः अस्याः एव प्राचीनतां स्वीकृयते1। अत्रैव प्राप्यते महावाक्यं - प्रज्ञानं ब्रह्मेति। अत्रैव वयं उपनिषदः द्वितीयाध्यास्य शाङ्करभाष्यदृशा यथाबोधं तात्पर्यवर्णनं कुर्मः। पूर्वं तु प्रथमे खण्डे आगतस्य विषयस्य रूपरेखां किञ्चित् अनुपश्यामः।